षष्ठः पटलः
देवी उवाच
सूचिता मे पुरा शम्भो मन्त्रा नैकविधास्त्वया ।
इदानीं श्रोतुमिच्छामि देवीमुच्छिष्टपूर्विकाम् ॥ ६/१ ॥
शम्भुरुवाच
शृणु देवि वरारोहे देवीं तां कथयाम्यहम् ।
यस्या विज्ञानमात्रेण भवेद् विद्यामयो नरः ॥ ६/२ ॥
देवी उवाच
आ/ पू/ कोलि पू/ कोलि वा/ ह्री पूं कोलि विगल चु/ वा/ हु/ हु/ ।
को विधिः किं फलं चास्य मयि विद्यास्वरूपतः ।
कथ्यतां देव यत्नेन रहस्येन निवेदितम् ॥ ६/३ ॥
शम्भुरुवाच
शृणु देवि विधिं वक्ष्ये फलं चोच्चाटनादिकम् ।
विषं च स्थावरं देवि विद्याभावान् निहन्ति च ॥ ६/४ ॥
अथान्यत् संप्रवक्ष्यामि देवीं गुह्यतमां प्रिये ।
उच्छिष्टपूर्विकां चैव मातङ्गीं सर्वसिद्धिदाम् ॥ ६/५ ॥
सर्वपापहरां देवीं सर्वदोषविवर्जिताम् ।
यया विज्ञातया देव्या क्षयं गच्छन्ति चापदः ॥ ६/६ ॥
स्थावरं जङ्गमं चैव कृत्रिमं चाङ्गजं तथा ।
विषं जयति देवेशि स्वपराङ्गसमाश्रितम् ॥ ६/७ ॥
इयं विद्या परा विद्या सर्वपापापहारिणी ।
स्वर्गदा मोक्षदा चैव राज्यसौख्यफलप्रदा ॥ ६/८ ॥
इयं देवि मया पूर्वं साधिता विषनिर्जिता ।
सकृदुच्चारिता विद्या ब्रह्महत्याविशोधिनी ॥ ६/९ ॥
सर्वपापापहन्त्रीयं लोकसौभाग्यदायिनी ।
यद्युच्छिष्टमुखो भूत्वा स्मरद्देवीं कदाचन ॥ ६/१० ॥
तदाचान्तो भवेद् देवि विनैवाचमने कृते ।
दुर्भगा सुभगा नूनं दुःखिता सुखिता भवेत् ॥ ६/११ ॥
वन्ध्यापि लभते पुत्रं शतहायनजीवितम् ।
निर्धनो धनमाप्नोति मूर्खो विद्यामवाप्नुयात् ॥ ६/१२ ॥
यां यां प्रार्थयते सिद्धिं हठात् तां तामवाप्नुयात् ।
विधानञ्च प्रवक्ष्यामि शृणु देवि मनोरमे ॥ ६/१३ ॥
भोजनानन्तरं देवि विनैवाचमने कृते ।
बलिं दत्त्वा प्रथमतो मूलमन्त्रेण साधकः ॥ ६/१४ ॥
ततो मन्त्रं जपेद् ध्यात्वा देवींतामिष्टसिद्धये ।
मन्त्रं शृणु महादेवि यथावत् कथयामि ते ॥ ६/१५ ॥
नम उच्छिष्टशब्दं तु तथा चाण्डालिनीति च ।
सुमुखीति ततो देवि कीर्तयेत्तदनन्तरम् ॥ ६/१६ ॥
महापिशाचिनि पश्चाल्लज्जाबीजं ततः परम् ।
नादबिन्दुसमायुक्तं ठकारत्रितयं पुनः ॥ ६/१७ ॥
सविसर्गं महादेवि सर्वसिद्धिप्रदायकम् ।
चतुर्विंशत्यक्षरीयं विद्या सर्वार्थदायिनी ॥ ६/१८ ॥
न तिथिर्न च नक्षत्रं नोपवासो विधीयते ।
नाङ्गन्यासकरन्यासौ न वर्णन्यास ईरितः ॥ ६/१९ ॥
नारिदोषो न वा विघ्नं नाशौचो नियमो न च ।
यस्य तिष्ठति मन्त्रोऽयं न स विघ्नैरवाप्यते ॥ ६/२० ॥
ध्यानमस्याः प्रवक्ष्यामि यथावज्जगदीश्वरि ।
शवोपरि समासीनां रक्ताम्बरपरिच्छदाम् ॥ ६/२१ ॥
रक्तालङ्कारसंयुक्तां गुञ्जाहारविभूषिताम् ।
सुवक्त्रां षोडशाब्दां तु पीनोन्नतपयोधराम् ॥ ६/२२ ॥
कपालकर्तृकाहस्तां परमज्योतिरूपिणीम् ।
वामदक्षिणयोगेन ध्यायेन्मन्त्रविदुत्तमः ॥ ६/२३ ॥
उच्छिष्टेन बलिं दत्त्वा जपेत्तद्गतमानसः ।
उच्छिष्टेनैव कर्तव्यो जपोऽस्याः सिद्धिमिच्छता ॥ ६/२४ ॥
उच्छिष्टं जपमानस्य जायन्ते सर्वसिद्धयः ।
अपरञ्च प्रवक्ष्यामि शृणु देवि फलप्रदम् ॥ ६/२५ ॥
होमं संतर्पणं चास्याः सहसा कार्यसिद्धये ।
स्थण्डिले मण्डलं कृत्वा चतुरस्रं समाहितः ॥ ६/२६ ॥
पूजयेन्मण्डले देवीं मूलमन्त्रेण मन्त्रवित् ।
ततोऽग्नेर्घ्यं समादाय वह्निरूपां व्यवस्थिताम् ॥ ६/२७ ॥
देवीं ध्यात्वा चरेद्धोमं दधिसिद्धार्थतण्डुलैः ।
सहस्रैकविधानेन राजा भवति वश्यगः ॥ ६/२८ ॥
मार्जारस्य तु मांसेन यो देव्यै होममाचरेत् ।
स प्राप्नोति परां विद्यां सर्वशास्त्रवशीकृताम् ॥ ६/२९ ॥
कुर्याच्छागस्य मांसेन होमं मधुसमन्वितम् ।
सहस्रैकविधानेन भवन्ति धनसिद्धयः ॥ ६/३० ॥
विद्याकामश्चरेद्धोमं शर्करामधुपायसैः ।
नूनं तस्य भवन्त्येव सिद्धविद्याश्चतुर्दश ॥ ६/३१ ॥
रजस्वलाया वस्त्रेण मधुना पायसेन च ।
होमं कृत्वा महादेवि त्रैलोक्यं वशमानयेत् ॥ ६/३२ ॥
नागवल्ल्या चरेद्धोमं मधुना सह सर्पिषा ।
अयुतैकविधानेन सिद्धिविद्या भवेद् ध्रुवम् ॥ ६/३३ ॥
सद्योमार्जारमांसेन घृतेन मधुना सह ।
देवगन्धर्वकन्याया भवेदाकर्षणं ध्रुवम् ॥ ६/३४ ॥
शशकस्य तु मांसेन मधुनालोडितेन तु ।
कृत्वा होममवाप्नोति विद्यावित्तवरस्त्रियः ॥ ६/३५ ॥
धूस्तूरार्कस्य योगेन चितावह्नौ तु मन्त्रवित् ।
कोकिलाकाकपक्षैस्तु होमे शत्रून् विनाशयेत् ॥ ६/३६ ॥
उच्चाटनाय शत्रूणां होमं कुर्याच्च मन्त्रवित् ।
पूर्वोक्तेन विधानेन चिताकाष्ठहुताशने ॥ ६/३७ ॥
उलूककाकपक्षाभ्यां कुर्याद्धोमं निरन्तरम् ।
द्वेषयेच्छत्रुमन्योन्यं कलहाकुलमुद्धतम् ॥ ६/३८ ॥
उलूकपक्षहोमेन गर्भपातो वरस्त्रियाः ।
सहस्रैकविधानेन कुर्याद् होमं समाहितः ॥ ६/३९ ॥
विल्वपत्रेण साज्येन मासमेकं निरन्तरम् ।
अपि वन्ध्या लभेत् पुत्रं चिरजीविनमुत्तमम् ॥ ६/४० ॥
बन्धूककुसुमं हुत्वा रक्तं मधुसमन्वितम् ।
दुर्भगाया हठाद्देवि सौभाग्यं सुखदायकम् ॥ ६/४१ ॥
प्रातरुत्थाय यः कश्चिद् होमं कुर्याद् दिने दिने ।
जवापुष्पेण साज्येन शतमष्टोत्तरं प्रिये ॥ ६/४२ ॥
षण्मासस्य प्रयोगेण भवेदाकर्षणं ध्रुवम् ।
देवगन्धर्वमर्त्यानां कन्या नागाङ्गजास्तथा ॥ ६/४३ ॥
हठादागत्य कामार्त्ता बलादालिङ्गयान्ति तम् ।
विद्यायाः क्रियते होमस्तिलपायसमिश्रितैः ॥ ६/४४ ॥
समाप्नोति महाविद्यां शास्त्रौघपदशालिनीम् ।
मधुना रुरुमांसेन होमं कुर्यात् प्रयत्नतः ॥ ६/४५ ॥
विद्यावान् धनवान् विद्धि शस्त्रशास्त्रवशीकृताम् ।
इयं देवि महादेवि वामाचारफलप्रदा ॥ ६/४६ ॥
दक्षिणाचारयोगेन न भवेत् फलदायिनी ।
भोजनानन्तरं चास्या बलिं दत्त्वा दिने दिने ॥ ६/४७ ॥
उच्छिष्टेन जपेन्मन्त्रं शतमष्टोत्तरं प्रिये ।
उज्जटे वा श्मशाने वा शून्यागारे चतुष्पथे ॥ ६/४८ ॥
वालिप्रदानतो देवि प्रत्यक्षा भवति ध्रुवम् ।
एषा देवी मया जप्ता भैरवाकारमिच्छता ॥ ६/४९ ॥
इत्येषा कथिता देवी सर्वपापापहारिणी ।
मन्त्रस्योच्चारणाद्देवि सर्वपापवर्जितः ॥ ६/५० ॥
उच्छिष्टदूषणं नास्ति स पवित्रो भवेद् ध्रुवम् ।
इत्युच्छिष्टचण्डालिनी देवी भुवनत्रयविश्रुता ॥ ६/५१ ॥
नान्या प्रवर्तते काचिद् विद्यां शृणु वरानने ।
शृणु देवि महाविद्यां समयाकालसाधिनीम् ॥ ६/५२ ॥
शङ्कर उवाच
न तिथिर्न च नक्षत्रं न च साध्यादिमर्चयेत् ।
महाविद्येति विख्याता शिवदीक्षान्तगामिनी ॥ ६/५३ ॥
यज्ञोपवीतं देवेशि धार्यते साधकैर्नरैः ।
उच्छिष्टेनार्चयेद्देवीं महादेवेन साधिताम् ॥ ६/५४ ॥
नाप्यनवगतस्तिष्ठेत् सर्वग्रन्थं सुविस्तरम् ।
बहुनोक्तेन किं देवि त्रैलोक्यमपि साधयेत् ॥ ६/५५ ॥
सदाकालं तु मन्त्रोऽयं स्मर्तव्यस्त्रिपुण्ड्रधारिणा ।
पयसा गुडभक्तेन झषेण जुहुयान्नरः ॥ ६/५६ ॥
आयुर्धनञ्च पुत्रांश्च विद्यामष्टादशीं लभेत् ।
गोप्तव्येयं प्रयत्नेन कथितव्या न कस्यचित् ॥ ६/५७ ॥
गुरुभक्तिः प्रकर्तव्या कायेन च धनेन च ।
लोकापवादो न च देवि पापं नैवापरस्तिष्ठति मर्त्यलोके ॥ ६/५८ ॥
सुखं भुक्त्वा परे देवि प्लवञ्च साधको व्रजेत् ।
पक्षैकसारां धनदैकसारां विद्यैकसाराञ्च शृणुष्व विद्याम् ॥ ६/५९ ॥
सर्वोपकारां परमार्थसारां महानुभावां भुवि कामधेनुम् ।
इति शिवदीक्षान्तर्गतभवसिद्धलक्ष्मीमते पश्चिमाम्नाये फेत्कारिणीतन्त्रे
उच्छिष्टचाण्डालिनीविवरणं नाम षष्ठः पटलः ॥